Blog Post

Vedasaram > समाचार – हिंदी

शिव नामावल्यष्टकं (नामावली अष्टकं)

हे चंद्रचूड मदनांतक शूलपाणे स्थाणो गिरीश गिरिजेश महेश शंभो । भूतेश भीतभयसूदन मामनाथं संसारदुःखगहनाज्जगदीश रक्ष ॥ 1 ॥ हे पार्वतीहृदयवल्लभ चंद्रमौले भूताधिप प्रमथनाथ गिरीशचाप । हे वामदेव भव रुद्र पिनाकपाणे संसारदुःखगहनाज्जगदीश रक्ष ॥ 2 ॥ हे नीलकंठ वृषभध्वज पंचवक्त्र लोकेश शेषवलय प्रमथेश शर्व । हे धूर्जटे पशुपते गिरिजापते मां संसारदुःखगहनाज्जगदीश रक्ष ॥ 3 ॥ हे […]

Read More

शिव केशादि पादांत वर्णन स्तोत्रं

देयासुर्मूर्ध्नि राजत्सरससुरसरित्पारपर्यंतनिर्य- -त्प्रांशुस्तंबाः पिशंगास्तुलितपरिणतारक्तशालीलता वः । दुर्वारापत्तिगर्तश्रितनिखिलजनोत्तारणे रज्जुभूता घोराघोर्वीरुहालीदहनशिखिशिखाः शर्म शार्वाः कपर्दाः ॥ 1 ॥ कुर्वन्निर्वाणमार्गप्रगमपरिलसद्रूप्यसोपानशंकां शक्रारीणां पुराणां त्रयविजयकृतस्पष्टरेखायमाणम् । अव्यादव्याजमुच्चैरलिकहिमधराधित्यकांतस्त्रिधोद्य- -ज्जाह्नव्याभं मृडानीकमितुरुडुपरुक्पांडरं वस्त्रिपुंड्रम् ॥ 2 ॥ क्रुध्यद्गौरीप्रसादानतिसमयपदांगुष्ठसंक्रांतलाक्षा- -बिंदुस्पर्धि स्मरारेः स्फटिकमणिदृषन्मग्नमाणिक्यशोभम् । मूर्ध्न्युद्यद्दिव्यसिंधोः पतितशफरिकाकारि वो मस्तकं स्ता- -दस्तोकापत्तिकृत्यै हुतवहकणिकामोक्षरूक्षं सदाक्षि ॥ 3 ॥ भूत्यै दृग्भूतयोः स्याद्यदहिमहिमरुग्बिंबयोः स्निग्धवर्णो दैत्यौघध्वंसशंसी स्फुट इव परिवेषावशेषो विभाति । सर्गस्थित्यंतवृत्तिर्मयि समुपगतेतीव […]

Read More

शिव पादादि केशांत वर्णन स्तोत्रं

कल्याणं नो विधत्तां कटकतटलसत्कल्पवाटीनिकुंज- -क्रीडासंसक्तविद्याधरनिकरवधूगीतरुद्रापदानः । तारैर्हेरंबनादैस्तरलितनिनदत्तारकारातिकेकी कैलासः शर्वनिर्वृत्यभिजनकपदः सर्वदा पर्वतेंद्रः ॥ 1 ॥ यस्य प्राहुः स्वरूपं सकलदिविषदां सारसर्वस्वयोगं यस्येषुः शार्‍ंगधन्वा समजनि जगतां रक्षणे जागरूकः । मौर्वी दर्वीकराणामपि च परिबृढः पूस्त्रयी सा च लक्ष्यं सोऽव्यादव्याजमस्मानशिवभिदनिशं नाकिनां श्रीपिनाकः ॥ 2 ॥ आतंकावेगहारी सकलदिविषदामंघ्रिपद्माश्रयाणां मातंगाद्युग्रदैत्यप्रकरतनुगलद्रक्तधाराक्तधारः । क्रूरः सूरायुतानामपि च परिभवं स्वीयभासा वितन्व- -न्घोराकारः कुठारो दृढतरदुरिताख्याटवीं पाटयेन्नः ॥ […]

Read More

निर्गुण मानस पूजा

शिष्य उवाच अखंडे सच्चिदानंदे निर्विकल्पैकरूपिणि । स्थितेऽद्वितीयभावेऽपि कथं पूजा विधीयते ॥ 1 ॥ पूर्णस्यावाहनं कुत्र सर्वाधारस्य चासनम् । स्वच्छस्य पाद्यमर्घ्यं च शुद्धस्याचमनं कुतः ॥ 2 ॥ निर्मलस्य कुतः स्नानं वासो विश्वोदरस्य च । अगोत्रस्य त्ववर्णस्य कुतस्तस्योपवीतकम् ॥ 3 ॥ निर्लेपस्य कुतो गंधः पुष्पं निर्वासनस्य च । निर्विशेषस्य का भूषा कोऽलंकारो निराकृतेः ॥ 4 ॥ निरंजनस्य […]

Read More

काशी पंचकं

मनो निवृत्तिः परमोपशांतिः सा तीर्थवर्या मणिकर्णिका च ज्ञानप्रवाहा विमलादिगंगा सा काशिकाहं निजबोधरूपा ॥ 1 ॥ यस्यामिदं कल्पितमिंद्रजालं चराचरं भाति मनोविलासं सच्चित्सुखैका परमात्मरूपा सा काशिकाहं निजबोधरूपा ॥ 2 ॥ कोशेषु पंचस्वधिराजमाना बुद्धिर्भवानी प्रतिदेहगेहं साक्षी शिवः सर्वगतोऽंतरात्मा सा काशिकाहं निजबोधरूपा ॥ 3 ॥ काश्या हि काशत काशी काशी सर्वप्रकाशिका सा काशी विदिता येन तेन प्राप्ता हि काशिका […]

Read More

यम कृत शिव केशव अष्टोत्तर शत नामावलिः

ॐ श्री कांताय नमः ॐ शिवाय नमः ॐ असुरनिबर्हणाय नमः ॐ मन्मधरिपवे नमः ॐ जनार्थनाय नमः ॐ खंडपरशवे नमः ॐ शंखपाणये नमः ॐ शशिशेखराय नमः ॐ दामोदराय नमः ॐ त्रिपुरसूदनाय नमः । 10 । ॐ अंबुदरनीलाय नमः ॐ स्धाणवे नमः ॐ आनंदकंदाय नमः ॐ सर्वेश्वराय नमः ॐ गोविंदाय नमः ॐ भूतेशाय नमः ॐ गोपालाय नमः […]

Read More

यम कृत शिव केशव स्तोत्रं

ध्यानं माधवोमाधवावीशौ सर्वसिद्धिविहायिनौ । वंदे परस्परात्मानौ परस्परनुतिप्रियौ ॥ स्तोत्रं गोविंद माधव मुकुंद हरे मुरारे शंभो शिवेश शशिशेखर शूलपाणे । दामोदराऽच्युत जनार्दन वासुदेव त्याज्याभटाय इति संततमामनंति ॥ 1 गंगाधरांधकरिपो हर नीलकंठ वैकुंठकैटभरिपो कमठाब्जपाणे । भूतेश खंडपरशो मृड चंडिकेश त्याज्याभटाय इति संततमामनंति ॥ 2 विष्णो नृसिंह मधुसूदन चक्रपाणे गौरीपते गिरिश शंकर चंद्रचूड । नारायणाऽसुरनिबर्हण शार्ङ्गपाणे त्याज्याभटाय इति […]

Read More

सुवर्णमाला स्तुति

अथ कथमपि मद्रासनां त्वद्गुणलेशैर्विशोधयामि विभो । सांब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् ॥ 1 ॥ आखंडलमदखंडनपंडित तंडुप्रिय चंडीश विभो । सांब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् ॥ 2 ॥ इभचर्मांबर शंबररिपुवपुरपहरणोज्ज्वलनयन विभो । सांब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् ॥ 3 ॥ ईश गिरीश नरेश परेश महेश बिलेशयभूषण भो […]

Read More

शिव सहस्र नामावलिः

ॐ स्थिराय नमः । ॐ स्थाणवे नमः । ॐ प्रभवे नमः । ॐ भीमाय नमः । ॐ प्रवराय नमः । ॐ वरदाय नमः । ॐ वराय नमः । ॐ सर्वात्मने नमः । ॐ सर्वविख्याताय नमः । ॐ सर्वस्मै नमः । ॐ सर्वकराय नमः । ॐ भवाय नमः । ॐ जटिने नमः । ॐ चर्मिणे नमः […]

Read More

श्री काल भैरव स्तोत्रम्

अथ संकल्पः ॐ ऐं शिव शक्ति सायि सिद्धगुरु श्री रमणानंद महर्षि गुरुभ्यो नमः ॐ श्री दश महाविद्या देवताभ्यो नमः ॐ श्री दश भैरव देवताभ्यो नमः अथ चतुर्वेद ज्ञान ब्रह्म सिद्धगुरु श्री रमणानंद महर्षि विरचित चतुर्विंशति श्लोकात्मक श्री काल भैरव स्तोत्रं शिवाय परमात्मने महाते पापनाशिने । नीललोहितदेहाय भैरवाय नमो नमः ॥ ब्रह्म शिरो विखंडिने ब्रह्म गर्व […]

Read More