
श्री लक्ष्मी नारायण हृदय स्तोत्रम्
अथ नारायन हृदय स्तोत्रम् अस्य श्रीनारायणहृदयस्तोत्रमंत्रस्य भार्गव ऋषिः, अनुष्टुप्छंदः, श्रीलक्ष्मीनारायणो देवता, ॐ बीजं, नमश्शक्तिः, नारायणायेति कीलकं, श्रीलक्ष्मीनारायण प्रीत्यर्थे जपे विनियोगः । करन्यासः ।ॐ नारायणः परं ज्योतिरिति अंगुष्ठाभ्यां नमः ।नारायणः परं ब्रह्मेति तर्जनीभ्यां नमः ।नारायणः परो देव इति मध्यमाभ्यां नमः ।नारायणः परं धामेति अनामिकाभ्यां नमः ।नारायणः परो धर्म इति कनिष्ठिकाभ्यां नमः ।विश्वं नारायण इति करतलकरपृष्ठाभ्यां नमः […]