
सिद्धि विनायक स्तोत्रम्
विघ्नेश विघ्नचयखंडननामधेय श्रीशंकरात्मज सुराधिपवंद्यपाद । दुर्गामहाव्रतफलाखिलमंगलात्मन् विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ 1 ॥ सत्पद्मरागमणिवर्णशरीरकांतिः श्रीसिद्धिबुद्धिपरिचर्चितकुंकुमश्रीः । वक्षःस्थले वलयितातिमनोज्ञशुंडो विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ 2 ॥ पाशांकुशाब्जपरशूंश्च दधच्चतुर्भि- -र्दोर्भिश्च शोणकुसुमस्रगुमांगजातः । सिंदूरशोभितललाटविधुप्रकाशो विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ 3 ॥ कार्येषु विघ्नचयभीतविरिंचमुख्यैः संपूजितः सुरवरैरपि मोदकाद्यैः । सर्वेषु च प्रथममेव सुरेषु पूज्यो विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ 4 […]