श्री रुद्रं लघुन्यासम्
ॐ अथात्मानग्ं शिवात्मानं श्री रुद्ररूपं ध्यायेत् ॥ शुद्धस्फटिक संकाशं त्रिनेत्रं पंच वक्त्रकम् । गंगाधरं दशभुजं सर्वाभरण भूषितम् ॥ नीलग्रीवं शशांकांकं नाग यज्ञोप वीतिनम् । व्याघ्र चर्मोत्तरीयं च वरेण्यमभय प्रदम् ॥ कमंडल्-वक्ष सूत्राणां धारिणं शूलपाणिनम् । ज्वलंतं पिंगलजटा शिखा मुद्द्योत धारिणम् ॥ वृष स्कंध समारूढं उमा देहार्थ धारिणम् । अमृतेनाप्लुतं शांतं दिव्यभोग समन्वितम् ॥ दिग्देवता समायुक्तं […]