शिव सहस्र नाम स्तोत्रम्
पूर्वपीठिका ॥ वासुदेव उवाच ।ततः स प्रयतो भूत्वा मम तात युधिष्ठिर ।प्रांजलिः प्राह विप्रर्षिर्नामसंग्रहमादितः ॥ 1 ॥ उपमन्युरुवाच ।ब्रह्मप्रोक्तैरृषिप्रोक्तैर्वेदवेदांगसंभवैः ।सर्वलोकेषु विख्यातं स्तुत्यं स्तोष्यामि नामभिः ॥ 2 ॥ महद्भिर्विहितैः सत्यैः सिद्धैः सर्वार्थसाधकैः ।ऋषिणा तंडिना भक्त्या कृतैर्वेदकृतात्मना ॥ 3 ॥ यथोक्तैः साधुभिः ख्यातैर्मुनिभिस्तत्त्वदर्शिभिः ।प्रवरं प्रथमं स्वर्ग्यं सर्वभूतहितं शुभम् ॥ 4 ॥ श्रुतैः सर्वत्र जगति ब्रह्मलोकावतारितैः ।सत्यैस्तत्परमं ब्रह्म […]