बिल्वाष्टकम्
त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् ।त्रिजन्म पापसंहारं एकबिल्वं शिवार्पणम् ॥ त्रिशाखैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः ।तवपूजां करिष्यामि एकबिल्वं शिवार्पणम् ॥ कोटि कन्या महादानं तिलपर्वत कोटयः ।कांचनं शैलदानेन एकबिल्वं शिवार्पणम् ॥ काशीक्षेत्र निवासं च कालभैरव दर्शनम् ।प्रयागे माधवं दृष्ट्वा एकबिल्वं शिवार्पणम् ॥ इंदुवारे व्रतं स्थित्वा निराहारो महेश्वराः ।नक्तं हौष्यामि देवेश एकबिल्वं शिवार्पणम् ॥ रामलिंग प्रतिष्ठा च […]