Blog Post

Vedasaram >
गणेश

गणेश मानस पूज

गृत्समद उवाच । विघ्नेशवीर्याणि विचित्रकाणि बंदीजनैर्मागधकैः स्मृतानि । श्रुत्वा समुत्तिष्ठ गजानन त्वं ब्राह्मे जगन्मंगलकं कुरुष्व ॥ 1 ॥ एवं मया प्रार्थित विघ्नराज- -श्चित्तेन चोत्थाय बहिर्गणेशः । तं निर्गतं वीक्ष्य नमंति देवाः शंभ्वादयो योगिमुखास्तथाहम् ॥ 2 ॥ शौचादिकं ते परिकल्पयामि हेरंब वै दंतविशुद्धिमेवम् । वस्त्रेण संप्रोक्ष्य मुखारविंदं देवं सभायां विनिवेशयामि ॥ 3 ॥ द्विजादिसर्वैरभिवंदितं च शुकादिभिर्मोदसुमोदकाद्यैः […]

Read More
गणेश

चिंतामणि षट्पदी

द्विरदवदन विषमरद वरद जयेशान शांतवरसदन । सदनवसादन दयया कुरु सादनमंतरायस्य ॥ 1 ॥ इंदुकला कलितालिक सालिकशुंभत्कपोलपालियुग । विकटस्फुटकटधाराधारोऽस्यस्य प्रपंचस्य ॥ 2 ॥ वरपरशुपाशपाणे पणितपणायापणायितोऽसि यतः । आरूह्य वज्रदंतं आखुं विदधासि विपदंतम् ॥ 3 ॥ लंबोदर दूर्वासन शयधृतसामोदमोदकाशनक । शनकैरवलोकय मां यमांतरायापहारिचारुदृशा ॥ 4 ॥ आनंदतुंदिलाखिलवृंदारकवृंदवंदितांघ्रियुग । सुखधृतदंडरसालो नागजभालोऽतिभासि विभो ॥ 5 ॥ अगणेयगुणेशात्मज चिंतकचिंतामणे गणेशान […]

Read More
गणेश

धुंढिराज भुजंग प्रयात स्तोत्रम्

उमांगोद्भवं दंतिवक्त्रं गणेशं भुजाकंकणैः शोभिनं धूम्रकेतुम् । गले हारमुक्तावलीशोभितं तं नमो ज्ञानरूपं गणेशं नमस्ते ॥ 1 ॥ गणेशं वदेत्तं स्मरेत् सर्वकार्ये स्मरन् सन्मुखं ज्ञानदं सर्वसिद्धिम् । मनश्चिंतितं कार्यमेवेषु सिद्ध्ये- -न्नमो बुद्धिकांतं गणेशं नमस्ते ॥ 2 ॥ महासुंदरं वक्त्रचिह्नं विराटं चतुर्धाभुजं चैकदंतैकवर्णम् । इदं देवरूपं गणं सिद्धिनाथं नमो भालचंद्रं गणेशं नमस्ते ॥ 3 ॥ ससिंदूरसत्कुंकुमैस्तुल्यवर्णः स्तुतैर्मोदकैः […]

Read More
गणेश

गणेश वज्र पंजर स्तोत्रम्

ध्यानम् । त्रिनेत्रं गजास्यं चतुर्बाहुधारं परश्वादिशस्त्रैर्युतं भालचंद्रम् । नराकारदेहं सदा योगशांतं गणेशं भजे सर्ववंद्यं परेशम् ॥ 1 ॥ बिंदुरूपो वक्रतुंडो रक्षतु मे हृदि स्थितः । देहांश्चतुर्विधांस्तत्त्वांस्तत्त्वाधारः सनातनः ॥ 2 ॥ देहमोहयुतं ह्येकदंतः सोऽहं स्वरूपधृक् । देहिनं मां विशेषेण रक्षतु भ्रमनाशकः ॥ 3 ॥ महोदरस्तथा देवो नानाबोधान् प्रतापवान् । सदा रक्षतु मे बोधानंदसंस्थो ह्यहर्निशम् ॥ 4 […]

Read More
गणेश

गणेश अष्टकम्

सर्वे उचुः । यतोऽनंतशक्तेरनंताश्च जीवा यतो निर्गुणादप्रमेया गुणास्ते । यतो भाति सर्वं त्रिधा भेदभिन्नं सदा तं गणेशं नमामो भजामः ॥ 1 ॥ यतश्चाविरासीज्जगत्सर्वमेत- -त्तथाब्जासनो विश्वगो विश्वगोप्ता । तथेंद्रादयो देवसंघा मनुष्याः सदा तं गणेशं नमामो भजामः ॥ 2 ॥ यतो वह्निभानू भवो भूर्जलं च यतः सागराश्चंद्रमा व्योम वायुः । यतः स्थावरा जंगमा वृक्षसंघाः सदा तं गणेशं […]

Read More
गणेश

श्री गणपति तालम्

विकटोत्कटसुंदरदंतिमुखं भुजगेंद्रसुसर्पगदाभरणम् । गजनीलगजेंद्र गणाधिपतिं प्रणतोऽस्मि विनायक हस्तिमुखम् ॥ 1 ॥ सुर सुर गणपति सुंदरकेशं ऋषि ऋषि गणपति यज्ञसमानम् । भव भव गणपति पद्मशरीरं जय जय गणपति दिव्यनमस्ते ॥ 2 ॥ गजमुखवक्त्रं गिरिजापुत्रं गणगुणमित्रं गणपतिमीशप्रियम् ॥ 3 ॥ करधृतपरशुं कंकणपाणिं कबलितपद्मरुचिम् । सुरपतिवंद्यं सुंदरनृत्तं सुरचितमणिमकुटम् ॥ 4 ॥ प्रणमत देवं प्रकटित तालं षड्गिरि तालमिदम् । […]

Read More
गणेश

सिद्धि विनायक स्तोत्रम्

विघ्नेश विघ्नचयखंडननामधेय श्रीशंकरात्मज सुराधिपवंद्यपाद । दुर्गामहाव्रतफलाखिलमंगलात्मन् विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ 1 ॥ सत्पद्मरागमणिवर्णशरीरकांतिः श्रीसिद्धिबुद्धिपरिचर्चितकुंकुमश्रीः । वक्षःस्थले वलयितातिमनोज्ञशुंडो विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ 2 ॥ पाशांकुशाब्जपरशूंश्च दधच्चतुर्भि- -र्दोर्भिश्च शोणकुसुमस्रगुमांगजातः । सिंदूरशोभितललाटविधुप्रकाशो विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ 3 ॥ कार्येषु विघ्नचयभीतविरिंचमुख्यैः संपूजितः सुरवरैरपि मोदकाद्यैः । सर्वेषु च प्रथममेव सुरेषु पूज्यो विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ 4 […]

Read More
गणेश

संतान गणपति स्तोत्रम्

नमोऽस्तु गणनाथाय सिद्धिबुद्धियुताय च । सर्वप्रदाय देवाय पुत्रवृद्धिप्रदाय च ॥ 1 ॥ गुरूदराय गुरवे गोप्त्रे गुह्यासिताय ते । गोप्याय गोपिताशेषभुवनाय चिदात्मने ॥ 2 ॥ विश्वमूलाय भव्याय विश्वसृष्टिकराय ते । नमो नमस्ते सत्याय सत्यपूर्णाय शुंडिने ॥ 3 ॥ एकदंताय शुद्धाय सुमुखाय नमो नमः । प्रपन्नजनपालाय प्रणतार्तिविनाशिने ॥ 4 ॥ शरणं भव देवेश संततिं सुदृढा कुरु । […]

Read More
गणेश

विनायक अष्टोत्तर शत नामावलि

ॐ विनायकाय नमः । ॐ विघ्नराजाय नमः । ॐ गौरीपुत्राय नमः । ॐ गणेश्वराय नमः । ॐ स्कंदाग्रजाय नमः । ॐ अव्ययाय नमः । ॐ पूताय नमः । ॐ दक्षाय नमः । ॐ अध्यक्षाय नमः । ॐ द्विजप्रियाय नमः । 10 । ॐ अग्निगर्वच्छिदे नमः । ॐ इंद्रश्रीप्रदाय नमः । ॐ वाणीप्रदायकाय नमः । ॐ […]

Read More
गणेश

संकट नाशन गणेश स्तोत्रम्

नारद उवाच । प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् । भक्तावासं स्मरेन्नित्यमायुष्कामार्थसिद्धये ॥ 1 ॥ प्रथमं वक्रतुंडं च एकदंतं द्वितीयकम् । तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकम् ॥ 2 ॥ लंबोदरं पंचमं च षष्ठं विकटमेव च । सप्तमं विघ्नराजं च धूम्रवर्णं तथाष्टमम् ॥ 3 ॥ नवमं भालचंद्रं च दशमं तु विनायकम् । एकादशं गणपतिं द्वादशं तु गजाननम् ॥ […]

Read More