कनकधारा स्तोत्रम्
वंदे वंदारु मंदारमिंदिरानंदकंदलम् ।अमंदानंदसंदोह बंधुरं सिंधुराननम् ॥ अंगं हरेः पुलकभूषणमाश्रयंतीभृंगांगनेव मुकुलाभरणं तमालम् ।अंगीकृताखिलविभूतिरपांगलीलामांगल्यदास्तु मम मंगलदेवतायाः ॥ 1 ॥ मुग्धा मुहुर्विदधती वदने मुरारेःप्रेमत्रपाप्रणिहितानि गतागतानि ।माला दृशोर्मधुकरीव महोत्पले यासा मे श्रियं दिशतु सागरसंभवायाः ॥ 2 ॥ आमीलिताक्षमधिगम्य मुदा मुकुंदम्-आनंदकंदमनिमेषमनंगतंत्रम् ।आकेकरस्थितकनीनिकपक्ष्मनेत्रंभूत्यै भवेन्मम भुजंगशयांगनायाः ॥ 3 ॥ बाह्वंतरे मधुजितः श्रितकौस्तुभे याहारावलीव हरिनीलमयी विभाति ।कामप्रदा भगवतोऽपि कटाक्षमालाकल्याणमावहतु मे कमलालयायाः ॥ […]