श्री लक्ष्मी नारायण हृदय स्तोत्रम्
अथ नारायन हृदय स्तोत्रम् अस्य श्रीनारायणहृदयस्तोत्रमंत्रस्य भार्गव ऋषिः, अनुष्टुप्छंदः, श्रीलक्ष्मीनारायणो देवता, ॐ बीजं, नमश्शक्तिः, नारायणायेति कीलकं, श्रीलक्ष्मीनारायण प्रीत्यर्थे जपे विनियोगः । करन्यासः । ॐ नारायणः परं ज्योतिरिति अंगुष्ठाभ्यां नमः । नारायणः परं ब्रह्मेति तर्जनीभ्यां नमः । नारायणः परो देव इति मध्यमाभ्यां नमः । नारायणः परं धामेति अनामिकाभ्यां नमः । नारायणः परो धर्म इति कनिष्ठिकाभ्यां नमः […]