उमा महेश्वर स्तोत्रम्
नमः शिवाभ्यां नवयौवनाभ्यांपरस्पराश्लिष्टवपुर्धराभ्याम् ।नगेंद्रकन्यावृषकेतनाभ्यांनमो नमः शंकरपार्वतीभ्याम् ॥ 1 ॥ नमः शिवाभ्यां सरसोत्सवाभ्यांनमस्कृताभीष्टवरप्रदाभ्याम् ।नारायणेनार्चितपादुकाभ्यांनमो नमः शंकरपार्वतीभ्याम् ॥ 2 ॥ नमः शिवाभ्यां वृषवाहनाभ्यांविरिंचिविष्ण्विंद्रसुपूजिताभ्याम् ।विभूतिपाटीरविलेपनाभ्यांनमो नमः शंकरपार्वतीभ्याम् ॥ 3 ॥ नमः शिवाभ्यां जगदीश्वराभ्यांजगत्पतिभ्यां जयविग्रहाभ्याम् ।जंभारिमुख्यैरभिवंदिताभ्यांनमो नमः शंकरपार्वतीभ्याम् ॥ 4 ॥ नमः शिवाभ्यां परमौषधाभ्यांपंचाक्षरीपंजररंजिताभ्याम् ।प्रपंचसृष्टिस्थितिसंहृताभ्यांनमो नमः शंकरपार्वतीभ्याम् ॥ 5 ॥ नमः शिवाभ्यामतिसुंदराभ्यांअत्यंतमासक्तहृदंबुजाभ्याम् ।अशेषलोकैकहितंकराभ्यांनमो नमः शंकरपार्वतीभ्याम् ॥ 6 ॥ नमः […]