Blog Post

Vedasaram >
Lakshmi

कनकधारा स्तोत्रम्

वंदे वंदारु मंदारमिंदिरानंदकंदलम् ।अमंदानंदसंदोह बंधुरं सिंधुराननम् ॥ अंगं हरेः पुलकभूषणमाश्रयंतीभृंगांगनेव मुकुलाभरणं तमालम् ।अंगीकृताखिलविभूतिरपांगलीलामांगल्यदास्तु मम मंगलदेवतायाः ॥ 1 ॥ मुग्धा मुहुर्विदधती वदने मुरारेःप्रेमत्रपाप्रणिहितानि गतागतानि ।माला दृशोर्मधुकरीव महोत्पले यासा मे श्रियं दिशतु सागरसंभवायाः ॥ 2 ॥ आमीलिताक्षमधिगम्य मुदा मुकुंदम्-आनंदकंदमनिमेषमनंगतंत्रम् ।आकेकरस्थितकनीनिकपक्ष्मनेत्रंभूत्यै भवेन्मम भुजंगशयांगनायाः ॥ 3 ॥ बाह्वंतरे मधुजितः श्रितकौस्तुभे याहारावलीव हरिनीलमयी विभाति ।कामप्रदा भगवतोऽपि कटाक्षमालाकल्याणमावहतु मे कमलालयायाः ॥ […]

Read More
Lakshmi

श्री लक्ष्मी अष्टोत्तर शतनाम स्तोत्रम्

देव्युवाचदेवदेव! महादेव! त्रिकालज्ञ! महेश्वर!करुणाकर देवेश! भक्तानुग्रहकारक! ॥अष्टोत्तर शतं लक्ष्म्याः श्रोतुमिच्छामि तत्त्वतः ॥ ईश्वर उवाचदेवि! साधु महाभागे महाभाग्य प्रदायकम् ।सर्वैश्वर्यकरं पुण्यं सर्वपाप प्रणाशनम् ॥सर्वदारिद्र्य शमनं श्रवणाद्भुक्ति मुक्तिदम् ।राजवश्यकरं दिव्यं गुह्याद्-गुह्यतरं परम् ॥दुर्लभं सर्वदेवानां चतुष्षष्टि कलास्पदम् ।पद्मादीनां वरांतानां निधीनां नित्यदायकम् ॥समस्त देव संसेव्यं अणिमाद्यष्ट सिद्धिदम् ।किमत्र बहुनोक्तेन देवी प्रत्यक्षदायकम् ॥तव प्रीत्याद्य वक्ष्यामि समाहितमनाश्शृणु ।अष्टोत्तर शतस्यास्य महालक्ष्मिस्तु देवता […]

Read More
Lakshmi

महा लक्ष्म्यष्टकम्

इंद्र उवाच – नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते ।शंखचक्र गदाहस्ते महालक्ष्मि नमोऽस्तु ते ॥ 1 ॥ नमस्ते गरुडारूढे कोलासुर भयंकरि ।सर्वपापहरे देवि महालक्ष्मि नमोऽस्तु ते ॥ 2 ॥ सर्वज्ञे सर्ववरदे सर्व दुष्ट भयंकरि ।सर्वदुःख हरे देवि महालक्ष्मि नमोऽस्तु ते ॥ 3 ॥ सिद्धि बुद्धि प्रदे देवि भुक्ति मुक्ति प्रदायिनि ।मंत्र मूर्ते सदा देवि महालक्ष्मि नमोऽस्तु ते […]

Read More
लक्ष्मी

श्री सूक्तम्

ओम् ॥ हिर॑ण्यवर्णां॒ हरि॑णीं सु॒वर्ण॑रज॒तस्र॑जाम् । चं॒द्रां हि॒रण्म॑यीं-लँ॒क्ष्मीं जात॑वेदो म॒माव॑ह ॥ तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् । यस्यां॒ हिर॑ण्यं-विँं॒देयं॒ गामश्वं॒ पुरु॑षान॒हम् ॥ अ॒श्व॒पू॒र्वां र॑थम॒ध्यां ह॒स्तिना॑द-प्र॒बोधि॑नीम् । श्रियं॑ दे॒वीमुप॑ह्वये॒ श्रीर्मा॑ दे॒वीर्जु॑षताम् ॥ कां॒सो᳚स्मि॒ तां हिर॑ण्यप्रा॒कारा॑मा॒र्द्रां ज्वलं॑तीं तृ॒प्तां त॒र्पयं॑तीम् । प॒द्मे॒ स्थि॒तां प॒द्मव॑र्णां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥ चं॒द्रां प्र॑भा॒सां-यँ॒शसा॒ ज्वलं॑तीं॒ श्रियं॑-लोँ॒के दे॒वजु॑ष्टामुदा॒राम् । तां प॒द्मिनी॑मीं॒ शर॑णम॒हं प्रप॑द्येऽल॒क्ष्मीर्मे॑ नश्यतां॒ […]

Read More
  • 1
  • 2