शिव पादादि केशांत वर्णन स्तोत्रं
कल्याणं नो विधत्तां कटकतटलसत्कल्पवाटीनिकुंज- -क्रीडासंसक्तविद्याधरनिकरवधूगीतरुद्रापदानः । तारैर्हेरंबनादैस्तरलितनिनदत्तारकारातिकेकी कैलासः शर्वनिर्वृत्यभिजनकपदः सर्वदा पर्वतेंद्रः ॥ 1 ॥ यस्य प्राहुः स्वरूपं सकलदिविषदां सारसर्वस्वयोगं यस्येषुः शार्ंगधन्वा समजनि जगतां रक्षणे जागरूकः । मौर्वी दर्वीकराणामपि च परिबृढः पूस्त्रयी सा च लक्ष्यं सोऽव्यादव्याजमस्मानशिवभिदनिशं नाकिनां श्रीपिनाकः ॥ 2 ॥ आतंकावेगहारी सकलदिविषदामंघ्रिपद्माश्रयाणां मातंगाद्युग्रदैत्यप्रकरतनुगलद्रक्तधाराक्तधारः । क्रूरः सूरायुतानामपि च परिभवं स्वीयभासा वितन्व- -न्घोराकारः कुठारो दृढतरदुरिताख्याटवीं पाटयेन्नः ॥ […]