महामृत्युंजयस्तोत्रम् (रुद्रं पशुपतिम्)
श्रीगणेशाय नमः । ॐ अस्य श्रीमहामृत्युंजयस्तोत्रमंत्रस्य श्री मार्कंडेय ऋषिः, अनुष्टुप्छंदः, श्रीमृत्युंजयो देवता, गौरी शक्तिः, मम सर्वारिष्टसमस्तमृत्युशांत्यर्थं सकलैश्वर्यप्राप्त्यर्थं जपे विनोयोगः । ध्यानम् चंद्रार्काग्निविलोचनं स्मितमुखं पद्मद्वयांतस्थितं मुद्रापाशमृगाक्षसत्रविलसत्पाणिं हिमांशुप्रभम् । कोटींदुप्रगलत्सुधाप्लुततमुं हारादिभूषोज्ज्वलं कांतं विश्वविमोहनं पशुपतिं मृत्युंजयं भावयेत् ॥ रुद्रं पशुपतिं स्थाणुं नीलकंठमुमापतिम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ 1॥ नीलकंठं कालमूर्त्तिं कालज्ञं कालनाशनम् । नमामि […]