पशुपत्यष्टकम्
पशुपतींदुपतिं धरणीपतिं भुजगलोकपतिं च सतीपतिम् । प्रणतभक्तजनार्तिहरं परं भजत रे मनुजा गिरिजापतिम् ॥1॥ न जनको जननी न च सोदरो न तनयो न च भूरिबलं कुलम् । अवति कोऽपि न कालवशं गतं भजत रे मनुजा गिरिजापतिम् ॥2॥ मुरजडिंडिमवाद्यविलक्षणं मधुरपंचमनादविशारदम् । प्रमथभूतगणैरपि सेवितं भजत रे मनुजा गिरिजापतिम् ॥3॥ शरणदं सुखदं शरणान्वितं शिव शिवेति शिवेति नतं नृणाम् । […]