शत रुद्रीयम्
व्यास उवाच प्रजा पतीनां प्रथमं तेजसां पुरुषं प्रभुम् । भुवनं भूर्भुवं देवं सर्वलोकेश्वरं प्रभुम्॥ 1 ईशानां वरदं पार्थ दृष्णवानसि शङ्करम् । तं गच्च शरणं देवं वरदं भवनेश्वरम् ॥ 2 महादेवं महात्मान मीशानं जटिलं शिवम् । त्य्रक्षं महाभुजं रुद्रं शिखिनं चीरवासनम् ॥ 3 महादेवं हरं स्थाणुं वरदं भवनेश्वरम् । जगत्र्पाधानमधिकं जगत्प्रीतमधीश्वरम् ॥ 4 जगद्योनिं जगद्द्वीपं जयनं […]