देयासुर्मूर्ध्नि राजत्सरससुरसरित्पारपर्यन्तनिर्य- -त्प्रांशुस्तम्बाः पिशङ्गास्तुलितपरिणतारक्तशालीलता वः । दुर्वारापत्तिगर्तश्रितनिखिलजनोत्तारणे रज्जुभूता घोराघोर्वीरुहालीदहनशिखिशिखाः शर्म शार्वाः कपर्दाः ॥ 1 ॥ कुर्वन्निर्वाणमार्गप्रगमपरिलसद्रूप्यसोपानशङ्कां शक्रारीणां पुराणां त्रयविजयकृतस्पष्टरेखायमाणम् ।