नक्षत्र सूक्तम् (नक्षत्रेष्टि)
तैत्तिरीय ब्राह्मण – अष्टकं 3, प्रश्नः 1, तैत्तिरीय संहिता – काण्ड 3, प्रपाठकः 5, अनुवाकं 1 नक्षत्रं – कृत्तिका, देवता – अग्निः ॐ अ॒ग्निर्नः॑ पातु॒ कृत्ति॑काः । नक्ष॑त्र-न्दे॒वमि॑न्द्रि॒यम् । इ॒दमा॑सां-विँचक्ष॒णम् । ह॒विरा॒स-ञ्जु॑होतन । यस्य॒ भान्ति॑ र॒श्मयो॒ यस्य॑ के॒तवः॑ । यस्ये॒मा विश्वा॒ भुव॑नानि॒ सर्वा᳚ । स कृत्ति॑काभि-र॒भिसं॒वँसा॑नः । अ॒ग्निर्नो॑ दे॒वस्सु॑वि॒ते द॑धातु ॥ 1 नक्षत्रं – रोहिणी, […]