श्रीकाशीविश्वनाथस्तोत्रम्
कण्ठे यस्य लसत्करालगरलं गङ्गाजलं मस्तके वामाङ्गे गिरिराजराजतनया जाया भवानी सती । नन्दिस्कन्दगणाधिराजसहिता श्रीविश्वनाथप्रभुः काशीमन्दिरसंस्थितोऽखिलगुरुर्देयात्सदा मङ्गलम् ॥ 1॥ यो देवैरसुरैर्मुनीन्द्रतनयैर्गन्धर्वयक्षोरगै- र्नागैर्भूतलवासिभिर्द्विजवरैः संसेवितः सिद्धये । या गङ्गोत्तरवाहिनी परिसरे तीर्थेरसङ्ख्यैर्वृता सा काशी त्रिपुरारिराजनगरी देयात्सदा मङ्गलम् ॥ 2॥ तीर्थानां प्रवरा मनोरथकरी संसारपारापरा- नन्दा नन्दिगणेश्वरैरुपहिता देवैरशेषैः स्तुता । या शम्भोर्मणिकुण्डलैककणिका विष्णोस्तपोदीर्घिका सेयं श्रीमणिकर्णिका भगवती देयात्सदा मङ्गलम् ॥ 3॥ एषा धर्मपताकिनी […]