Blog Post

Vedasaram > News

मन्यु सूक्तम्

अथ मन्युसूक्तं ऋग्वेद संहिता; मण्डलं 10; सूक्तं 83,84 यस्ते᳚ म॒न्यो-ऽवि॑धद् वज्र सायक॒ सह॒ ओजः॑ पुष्यति॒ विश्व॑मानु॒षक् । सा॒ह्याम॒ दास॒मार्य॒-न्त्वया᳚ यु॒जा सह॑स्कृतेन॒ सह॑सा॒ सह॑स्वता ॥ 1 ॥ म॒न्युरिन्द्रो᳚ म॒न्युरे॒वास॑ दे॒वो म॒न्युर् होता॒ वरु॑णो जा॒तवे᳚दाः । म॒न्युं-विँश॑ ईलते॒ मानु॑षी॒र्याः पा॒हि नो᳚ मन्यो॒ तप॑सा स॒जोषाः᳚ ॥ 2 ॥ अ॒भी᳚हि मन्यो त॒वस॒स्तवी᳚या॒-न्तप॑सा यु॒जा वि ज॑हि शत्रू᳚न् । अ॒मि॒त्र॒हा वृ॑त्र॒हा […]

Read More

नक्षत्र सूक्तम् (नक्षत्रेष्टि)

तैत्तिरीय ब्राह्मण – अष्टकं 3, प्रश्नः 1, तैत्तिरीय संहिता – काण्ड 3, प्रपाठकः 5, अनुवाकं 1 नक्षत्रं – कृत्तिका, देवता – अग्निः ॐ अ॒ग्निर्नः॑ पातु॒ कृत्ति॑काः । नक्ष॑त्र-न्दे॒वमि॑न्द्रि॒यम् । इ॒दमा॑सां-विँचक्ष॒णम् । ह॒विरा॒स-ञ्जु॑होतन । यस्य॒ भान्ति॑ र॒श्मयो॒ यस्य॑ के॒तवः॑ । यस्ये॒मा विश्वा॒ भुव॑नानि॒ सर्वा᳚ । स कृत्ति॑काभि-र॒भिसं॒​वँसा॑नः । अ॒ग्निर्नो॑ दे॒वस्सु॑वि॒ते द॑धातु ॥ 1 नक्षत्रं – रोहिणी, […]

Read More

श्री काल हस्तीश्वर शतकम्

श्रीविद्युत्कलिताऽजवञ्जवमहा-जीमूतपापाम्बुधा- रावेगम्बुन मन्मनोब्जसमुदी-र्णत्वम्बुఁ गोल्पोयितिन् । देवा! मी करुणाशरत्समयमिन्-तेఁ जालुఁ जिद्भावना- सेवं दामरतम्परै मनियॆदन्- श्री कालहस्तीश्वरा! ॥ 1 ॥ वाणीवल्लभदुर्लभम्बगु भवद्द्वारम्बुन न्निल्चि नि र्वाणश्रीఁ जॆऱपट्टఁ जूचिन विचारद्रोहमो नित्य क ल्याणक्रीडलఁ बासि दुर्दशलपा लै राजलोकाधम श्रेणीद्वारमु दूऱఁजेसि तिपुडो श्री कालहस्तीश्वरा! ॥ 2 ॥ अन्ता मिध्य तलञ्चि चूचिन नरुं डट्लौ टॆऱिङ्गिन् सदा कान्त ल्पुत्रुलु नर्धमुन् तनुवु नि क्कम्बञ्चु […]

Read More

शिव महिम्ना स्तोत्रम्

अथ श्री शिवमहिम्नस्तोत्रम् ॥ महिम्नः पारं ते परमविदुषो यद्यसदृशी स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः । अथाऽवाच्यः सर्वः स्वमतिपरिणामावधि गृणन् ममाप्येष स्तोत्रे हर निरपवादः परिकरः ॥ 1 ॥ अतीतः पन्थानं तव च महिमा वाङ्मनसयोः अतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि । स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः पदे त्वर्वाचीने पतति न मनः कस्य न वचः ॥ 2 ॥ मधुस्फीता वाचः […]

Read More

शिव कवचम्

अथ शिवकचम् अस्य श्री शिवकवच स्तोत्र महामन्त्रस्य । ऋषभ-योगीश्वर ऋषिः । अनुष्टुप् छन्दः । श्री-साम्बसदाशिवो देवता । ॐ बीजम् । नमः शक्तिः । शिवायेति कीलकम् । साम्बसदाशिवप्रीत्यर्थे जपे विनियोगः ॥ करन्यासः ॐ सदाशिवाय अङ्गुष्ठाभ्यां नमः । नं गङ्गाधराय तर्जनीभ्यां नमः । मं मृत्युञ्जयाय मध्यमाभ्यां नमः । शिं शूलपाणये अनामिकाभ्यां नमः । वां पिनाकपाणये कनिष्ठिकाभ्यां नमः […]

Read More

अर्ध नारीश्वर अष्टकम्

चाम्पेयगौरार्धशरीरकायै कर्पूरगौरार्धशरीरकाय । धम्मिल्लकायै च जटाधराय नमः शिवायै च नमः शिवाय ॥ 1 ॥ कस्तूरिकाकुङ्कुमचर्चितायै चितारजःपुञ्ज विचर्चिताय । कृतस्मरायै विकृतस्मराय नमः शिवायै च नमः शिवाय ॥ 2 ॥ झणत्क्वणत्कङ्कणनूपुरायै पादाब्जराजत्फणिनूपुराय । हेमाङ्गदायै भुजगाङ्गदाय नमः शिवायै च नमः शिवाय ॥ 3 ॥ विशालनीलोत्पललोचनायै विकासिपङ्केरुहलोचनाय । समेक्षणायै विषमेक्षणाय नमः शिवायै च नमः शिवाय ॥ 4 ॥ मन्दारमालाकलितालकायै […]

Read More

द्वादश ज्योतिर्लिङ्ग स्तोत्रम्

लघु स्तोत्रम् सौराष्ट्रे सोमनाधञ्च श्रीशैले मल्लिकार्जुनम् । उज्जयिन्यां महाकालं ओङ्कारेत्वमामलेश्वरम् ॥ पर्ल्यां वैद्यनाधञ्च ढाकिन्यां भीम शङ्करम् । सेतुबन्धेतु रामेशं नागेशं दारुकावने ॥ वारणाश्यान्तु विश्वेशं त्रयम्बकं गौतमीतटे । हिमालयेतु केदारं घृष्णेशन्तु विशालके ॥ एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः । सप्त जन्म कृतं पापं स्मरणेन विनश्यति ॥ सम्पूर्ण स्तोत्रम् सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् । भक्तप्रदानाय कृपावतीर्णं तं […]

Read More

शिव भुजङ्ग स्तोत्रम्

गलद्दानगण्डं मिलद्भृङ्गषण्डं चलच्चारुशुण्डं जगत्त्राणशौण्डम् । कनद्दन्तकाण्डं विपद्भङ्गचण्डं शिवप्रेमपिण्डं भजे वक्रतुण्डम् ॥ 1 ॥ अनाद्यन्तमाद्यं परं तत्त्वमर्थं चिदाकारमेकं तुरीयं त्वमेयम् । हरिब्रह्ममृग्यं परब्रह्मरूपं मनोवागतीतं महःशैवमीडे ॥ 2 ॥ स्वशक्त्यादि शक्त्यन्त सिंहासनस्थं मनोहारि सर्वाङ्गरत्नोरुभूषम् । जटाहीन्दुगङ्गास्थिशम्याकमौलिं पराशक्तिमित्रं नमः पञ्चवक्त्रम् ॥ 3 ॥ शिवेशानतत्पूरुषाघोरवामादिभिः पञ्चभिर्हृन्मुखैः षड्भिरङ्गैः । अनौपम्य षट्त्रिंशतं तत्त्वविद्यामतीतं परं त्वां कथं वेत्ति को वा ॥ 4 […]

Read More

शिव ताण्डव स्तोत्रम्

जटाटवीगलज्जलप्रवाहपावितस्थले गलेवलम्ब्य लम्बितां भुजङ्गतुङ्गमालिकाम् । डमड्डमड्डमड्डमन्निनादवड्डमर्वयं चकार चण्डताण्डवं तनोतु नः शिवः शिवम् ॥ 1 ॥ जटाकटाहसम्भ्रमभ्रमन्निलिम्पनिर्झरी- -विलोलवीचिवल्लरीविराजमानमूर्धनि । धगद्धगद्धगज्ज्वलल्ललाटपट्टपावके किशोरचन्द्रशेखरे रतिः प्रतिक्षणं मम ॥ 2 ॥ धराधरेन्द्रनन्दिनीविलासबन्धुबन्धुर स्फुरद्दिगन्तसन्ततिप्रमोदमानमानसे । कृपाकटाक्षधोरणीनिरुद्धदुर्धरापदि क्वचिद्दिगम्बरे मनो विनोदमेतु वस्तुनि ॥ 3 ॥ जटाभुजङ्गपिङ्गलस्फुरत्फणामणिप्रभा कदम्बकुङ्कुमद्रवप्रलिप्तदिग्वधूमुखे । मदान्धसिन्धुरस्फुरत्त्वगुत्तरीयमेदुरे मनो विनोदमद्भुतं बिभर्तु भूतभर्तरि ॥ 4 ॥ सहस्रलोचनप्रभृत्यशेषलेखशेखर प्रसूनधूलिधोरणी विधूसराङ्घ्रिपीठभूः । भुजङ्गराजमालया निबद्धजाटजूटक श्रियै […]

Read More

महेन्द्र कृत महालक्ष्मी स्तोत्रं

महेन्द्र उवाच नमः कमलवासिन्यै नारायण्यै नमो नमः । कृष्णप्रियायै सारायै पद्मायै च नमो नमः ॥ 1 ॥ पद्मपत्रेक्षणायै च पद्मास्यायै नमो नमः । पद्मासनायै पद्मिन्यै वैष्णव्यै च नमो नमः ॥ 2 ॥ सर्वसम्पत्स्वरूपायै सर्वदात्र्यै नमो नमः । सुखदायै मोक्षदायै सिद्धिदायै नमो नमः ॥ 3 ॥ हरिभक्तिप्रदात्र्यै च हर्षदात्र्यै नमो नमः । कृष्णवक्षःस्थितायै च कृष्णेशायै नमो […]

Read More