गणपति प्रार्थन घनपाठः
ॐ श्री गुरुभ्यो नमः । हरिः ओम् ॥ओ-ङ्ग॒णाना᳚-न्त्वा ग॒णप॑तिग्ं हवामहे क॒वि-ङ्क॑वी॒नां उप॒मश्र॑वस्तवम् । ज्ये॒ष्ठ॒राज॒-म्ब्रह्म॑णा-म्ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नम् ॥ग॒णाना᳚-न्त्वा त्वा ग॒णाना᳚-ङ्ग॒णाना᳚-न्त्वा ग॒णप॑ति-ङ्ग॒णप॑ति-न्त्वा ग॒णाना᳚-ङ्ग॒णाना᳚-न्त्वा ग॒णप॑तिम् ॥त्वा॒ ग॒णप॑ति-ङ्ग॒णप॑ति-न्त्वात्वा ग॒णप॑तिग्ं हवामहे हवामहे ग॒णप॑ति-न्त्वात्वा गणप॑तिग्ं हवामहे । ग॒णप॑तिग्ं हवामहे हवामहे ग॒णप॑ति-ङ्ग॒णप॑तिग्ं हवामहे क॒विन्क॒विग्ं ह॑वामहे ग॒णप॑ति-ङ्ग॒णप॑तिग्ं हवामहे क॒विम् । ग॒णप॑ति॒मिति॑ग॒ण-प॒ति॒म् ॥ह॒वा॒म॒हे॒ क॒वि-ङ्क॒विग्ं॒ ह॑वामहे हवामहे क॒वि-ङ्क॑वी॒नान्क॑वी॒ना-ङ्क॒विग्ं॒ ह॑वामहे हवामहे क॒विन्क॑वी॒नाम् ॥क॒विन्क॑वी॒नान्क॑वी॒ना-ङ्क॒विन्क॒वि-ङ्क॑वी॒नामु॑प॒मश्र॑वस्तम मुप॒मश्र॑वस्तमङ्क॑वी॒ना-ङ्क॒विन्क॒वि-ङ्क॑वी॒नामु॑प॒मश्र॑वस्तमम् […]