श्री सिद्धलक्ष्मी स्तोत्रम्
अस्य श्रीसिद्धलक्ष्मीस्तोत्रमन्त्रस्य हिरण्यगर्भ ऋषिः अनुष्टुप् छन्दः, श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो देवताः श्रीं बीजं ह्रीं शक्तिः क्लीं कीलकं मम सर्वक्लेशपीडापरिहारार्थं सर्वदुःखदारिद्र्यनाशनार्थं सर्वकार्यसिद्ध्यर्थं श्रीसिद्धिलक्ष्मीस्तोत्र पाठे विनियोगः ॥ ऋष्यादिन्यासः ॐ हिरण्यगर्भ ऋषये नमः शिरसि । अनुष्टुप्छन्दसे नमो मुखे । श्रीमहाकालीमहालक्ष्मीमहासरस्वतीदेवताभ्यो नमो हृदिः । श्रीं बीजाय नमो गुह्ये । ह्रीं शक्तये नमः पादयोः । क्लीं कीलकाय नमो नाभौ । विनियोगाय नमः सर्वाङ्गेषु […]